Saturday, December 30, 2023

वदतु संस्कृतम् नित्यम् - गुगल् chromebook

 गूगल् chromebook यात्रा - Day 1

अद्य अहं एकं गुगल् chromebook क्रीतवान् |

द्रष्टुम् सम्यक् अस्ति , परन्तु कार्याचरणे अल्प सामर्थ्यं वहति एतत् यन्त्रं |

अन्तरजालम् अवलम्ब्य यानि कार्याणि सन्ति - तानि  सम्यक् कर्तुम् शक्नुमः ... 

किन्तु अन्यानि कृते  - तावत् सुलभं उत साध्यं न दृश्यते |

परन्तु दैनन्दिक सरलानि कार्याणि बहु सुलभानि दृश्यन्ते |

Thursday, December 28, 2023

सप्ताह - अन्त्य [ weekend ] संवत्सरान्त्य [ yearend ]

नमस्ते,

इदानीं सप्ताह - अन्त्य [ weekend ] आगतम् ..  
अपि च आंग्ल संवत्सरस्य अन्त्य च |

संक्रमण कालः सदा अवकाशं कल्पयति - आत्म अवलोकनाय, नूतन संकल्पाय, कार्य औन्नत्याय !
गत अवध्याः मननम् - तत्रत्याः पाठाः, वृद्धि - ह्रासाः,  लाभाsलाभाः, अग्रिम अवध्याः कृते मार्गम् सूचयन्ति ..

सर्वेभ्यः अवलोकन पर्वणः शुभाशयाः !

वदतु संस्कृतं नित्यम् 
नरसिंह
   

Saturday, June 26, 2021

सर्वेषाम् स्वस्तिर्भवतु |

 हरिः ओं |

प्लव ज्येष्ठ कृ द्वितीय |

इदानींतन दिनेषु गृहतः कार्यं (work from home) प्रचलन् अस्ति |

विपर्यासः इत्युक्ते, कार्यमेव कुर्वंतः स्मः वयं आदिन पर्यंतं इति भासते |

इतः पूर्वम् किंचित् वा समयः लभते स्म - संचाराय, वस्त्रांतराय, जल्पनाय  !

आशयाम यत् - शीघ्रमेव  एषः संकटः निवार्येत , सर्वे पुनः सानुकूल्येन जीवनं यापयेम |

वदतु संस्कृतं नित्यम् |




Friday, May 3, 2019

 हरि: ॐ
विकारि संवत्सरस्य शुभाशया: |

वदतु संस्कृतं नित्यं |

Thursday, December 29, 2016

भो मन: विचित्रं ते स्वभाव:

यदा व्यस्थ: सन् चिन्तयामि .. तदा मनसि अनियन्त्रिता: चिन्ता: भवन्ति |   यदा किञ्चित् लिखामि इति विरामेण चिन्तयामि .. तदा मनसि शून्यता भाव: !!  भो मन: विचित्रं ते स्वभाव: !

जानन् अपि काल-हरण दुष्परिणामान् ... तेषु एव प्रेरयति मन: |
क्लिष्टः एव मनो-नियन्त्रणम्  |

वदतु संस्कृतं |

Sunday, August 2, 2015

तेलुगु चलचित्रं "बाहुबली" !!

तेलुगु चलचित्रं "बाहुबली"  !!

अमोघ भारतीय चलचित्रम् एतत् इदानीन्तन कालेषु !!  पञ्च तारा मूल्याङ्कं अर्हति "बाहुबली" !!
प्रभास्, तमन्ना, राणा, रम्य-कृष्णा, सत्य-राज्, अनुष्का आदि अभिनेतार: सम्यक् अभिनयम् कृतवन्त:|
तान्त्रिक रीत्या बहु श्रम: कृत: | काल्पनिक द्रुश्यानाम् चित्रणं अती समीचीनम् मनोहरम् च अस्ति |
न अत्यधिक न अत्यल्प इति भासते चित्रस्य वेगम् | सुमधुरं अस्ति संगीतं | लघु हास्यम् रोचते |
युद्ध दृश्यानि आकर्षनीयानि |

"... माहिष्मती साम्राज्यम् वर्धताम् अभिवर्धताम् ... "  :-)
अन्ते एतत् प्रश्न: सशेष: यत् ... कट्टप्पा बाहुबलीं किमर्थम् मारितवान् ??  ;-)

2016 संवत्सरे अस्य प्रश्नस्य समाधानम् लभते ...  तावत् सोत्साह-प्रतीक्षा क्रियते ||

महाभारतात् उद्धृतं भासते किञ्चित् कथावस्तू !  [ यदिहास्ति तदन्यत्र, यन्नेहास्ति न तत् क्वचित् !! ]

वदतु संस्कृतं नित्यम् |
नरसिंह |

Thursday, July 30, 2015

|| इक्ष्वाकु वंशस्थ:|| [ Scion of Ikshvaku ]

|| इक्ष्वाकु वंशस्थ:||  [ Scion of Ikshvaku ]

अमीश् त्रिपाठी वर्यस्य 'राम कथा' आवल्याम् एतत् प्रथम पुस्तकम् प्रकाशितम् |
गत सप्ताहे अहम् एतत् पठितवान् |
कथावस्तु मूल कथाया:किञ्चित् भिन्नम् अस्ति |
किन्तु बहु वेगेन धावति .. रोचक घटनावालीं कथयति ! अद्यतन पाठकेभय: रोचते !!

रामस्य गरिमाम्,  मौल्य-निष्ठां, आदर्श समाजस्य कल्पनाम् च चर्चयितुम् प्रयास: कृत: |

रामायण आधारित काल्पनिक कथा इत्येव गणनीया एषा कथा !! तर्हि आस्वादयितुम् शक्नुम: |

वदतु संस्कृतं नित्यम् |
नरसिंह |